वन्दनीय चरितेषु सारस्वतमूर्धन्येषु महामहिम शालिषु श्री कुमारपाल महोदयेषु अर्धः

यन्नाम श्रवणेन सत्वस्महो भावो वरीवृध्यते
बालानन्दयुताजयाशिवकरो विद्वज्जनानन्ददः ।
वामाङ्ग प्रतिमाप्रिया श्रुतिमयी शक्तिस्वरूपा सदा
आचार्यो श्री कुमारपालविबुधो प्रेम्णाऽत्र वावन्द्यते ।।

यो वर्वर्ति सुपुण्यपुञ्जमहितो चर्कर्ति भद्रं तथा
अन्तराष्ट्रियकीर्तिभूषितमहो संशोधने शेवधिः ।
श्रद्धाचिन्तनभूतिभाविलसितो विज्ञानसेवारतो
पद्मश्री सुविभूषितो विजयते पूर्णेश्वरानुग्रहात् ।।

ग्रन्थार्थाकलन प्रभासुरभिता प्रज्ञाधनप्राञ्चिताः
स्वाध्यायेन समर्जितेन तपसा यो वेधसा निर्मिता ।
ओङ्कारार्चनशंयुरात्तमहिमा सकतो रसब्रह्मणि
तस्मिन् पण्डितल्लजे त्वचि गिरा साक्षाद् विराराज्यते ।।

यस्य श्रीश्च सरस्वती च युगपत् सिद्धे स्वतो भास्वरे
नानाविश्रुतलोकमान्यपदवीः प्रज्ञायुता सर्वदा ।
कारुण्यामृततोयराशिलहरी यत्र व्यराजत् सदा ।
आचार्यो श्री कुमारपालविबुधो प्रेम्णाऽत्र वावन्द्यते ।।

विश्वबन्धुत्वमुदघोषयत्विश्रुतं
विश्ववन्द्यैश्चरित्रैर्जगत्पावयत् ।
ग्रन्थरत्नैश्च तैस्तैः प्रबुद्धो सदा
गुर्जरे भाति सः जयभिख्खुसुतः ।।

डॉ. योगिनी हिमांशु व्यास

સંસ્કૃત વિષયના અધ્યાપિકા, 22 ગ્રંથોના લેખિકા, સારસ્વત સન્માન પ્રાપ્ત કરનાર

Comments are closed.

Proudly powered by WordPress | Theme: Baskerville 2 by Anders Noren.

Up ↑